चूँकि संस्कृत देवों की भाषा है, इसलिए इसी भाषा में पुजारी-पंडित भी इसी भाषा में वंदना करते है। आप भी कर सकते है। इस पोस्ट में तीन भकतामर स्तोत्र को पेश कर रहे है, जो संस्कृत के अलावा Hinglish भाषा में विडियो के साथ है। पसंद आए तो जरूर मित्रों और स्वजन के Whatsapp & Facebook Timeline पर शेयर करे-
अनुक्रम
Bhaktamar Stotra Sanskrit
Bhaktamar Stotra -1
भक्तामर – प्रणत – मौलि – मणि -प्रभाणा-
मुद्योतकं दलित – पाप – तमो – वितानम्।
सम्यक् -प्रणम्य जिन – पाद – युगं युगादा-
वालम्बनं भव – जले पततां जनानाम्।। 1॥
य: संस्तुत: सकल – वाङ् मय – तत्त्व-बोधा-
दुद्भूत-बुद्धि – पटुभि: सुर – लोक – नाथै:।
स्तोत्रैर्जगत्- त्रितय – चित्त – हरैरुदारै:,
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्॥ 2॥
बुद्ध्या विनापि विबुधार्चित – पाद – पीठ!
स्तोतुं समुद्यत – मतिर्विगत – त्रपोऽहम्।
बालं विहाय जल-संस्थित-मिन्दु-बिम्ब-
मन्य: क इच्छति जन: सहसा ग्रहीतुम् ॥ 3॥
वक्तुं गुणान्गुण -समुद्र! शशाङ्क-कान्तान्,
कस्ते क्षम: सुर – गुरु-प्रतिमोऽपि बुद्ध ्या ।
कल्पान्त -काल – पवनोद्धत- नक्र- चक्रं,
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम्॥ 4॥
सोऽहं तथापि तव भक्ति – वशान्मुनीश!
कर्तुं स्तवं विगत – शक्ति – रपि प्रवृत्त:।
प्रीत्यात्म – वीर्य – मविचार्य मृगी मृगेन्द्रम्
नाभ्येति किं निज-शिशो: परिपालनार्थम्॥ 5॥
अल्प- श्रुतं श्रुतवतां परिहास-धाम,
त्वद्-भक्तिरेव मुखरी-कुरुते बलान्माम् ।
यत्कोकिल: किल मधौ मधुरं विरौति,
तच्चाम्र -चारु -कलिका-निकरैक -हेतु:॥ 6॥
त्वत्संस्तवेन भव – सन्तति-सन्निबद्धं,
पापं क्षणात्क्षयमुपैति शरीरभाजाम् ।
आक्रान्त – लोक – मलि -नील-मशेष-माशु,
सूर्यांशु- भिन्न-मिव शार्वर-मन्धकारम्॥ 7॥
मत्वेति नाथ! तव संस्तवनं मयेद, –
मारभ्यते तनु- धियापि तव प्रभावात् ।
चेतो हरिष्यति सतां नलिनी-दलेषु,
मुक्ता-फल – द्युति-मुपैति ननूद-बिन्दु:॥ 8॥
Bhaktamar Stotra Sanskrit Lyrics
आस्तां तव स्तवन- मस्त-समस्त-दोषं,
त्वत्सङ्कथाऽपि जगतां दुरितानि हन्ति ।
दूरे सहस्रकिरण: कुरुते प्रभैव,
पद्माकरेषु जलजानि विकासभाञ्जि ॥ 9॥
नात्यद्-भुतं भुवन – भूषण! भूूत-नाथ!
भूतैर्गुणैर्भुवि भवन्त – मभिष्टुवन्त:।
तुल्या भवन्ति भवतो ननु तेन किं वा
भूत्याश्रितं य इह नात्मसमं करोति ॥ 10॥
दृष्ट्वा भवन्त मनिमेष – विलोकनीयं,
नान्यत्र – तोष- मुपयाति जनस्य चक्षु:।
पीत्वा पय: शशिकर – द्युति – दुग्ध-सिन्धो:,
क्षारं जलं जलनिधेरसितुं क इच्छेत्?॥ 11॥
यै: शान्त-राग-रुचिभि: परमाणुभिस्-त्वं,
निर्मापितस्- त्रि-भुवनैक – ललाम-भूत!
तावन्त एव खलु तेऽप्यणव: पृथिव्यां,
यत्ते समान- मपरं न हि रूप-मस्ति॥ 12॥
वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि,
नि: शेष- निर्जित – जगत्त्रितयोपमानम् ।
बिम्बं कलङ्क – मलिनं क्व निशाकरस्य,
यद्वासरे भवति पाण्डुपलाश-कल्पम्॥13॥
सम्पूर्ण- मण्डल-शशाङ्क – कला-कलाप-
शुभ्रा गुणास् – त्रि-भुवनं तव लङ्घयन्ति।
ये संश्रितास् – त्रि-जगदीश्वरनाथ-मेकं,
कस्तान् निवारयति सञ्चरतो यथेष्टम्॥ 14॥
चित्रं – किमत्र यदि ते त्रिदशाङ्ग-नाभिर्-
नीतं मनागपि मनो न विकार – मार्गम्््् ।
कल्पान्त – काल – मरुता चलिताचलेन,
किं मन्दराद्रिशिखरं चलितं कदाचित्॥ 15॥
निर्धूम – वर्ति – रपवर्जित – तैल-पूर:,
कृत्स्नं जगत्त्रय – मिदं प्रकटीकरोषि।
गम्यो न जातु मरुतां चलिताचलानां,
दीपोऽपरस्त्वमसि नाथ! जगत्प्रकाश:॥ 16॥
नास्तं कदाचिदुपयासि न राहुगम्य:,
स्पष्टीकरोषि सहसा युगपज्- जगन्ति।
नाम्भोधरोदर – निरुद्ध – महा- प्रभाव:,
सूर्यातिशायि-महिमासि मुनीन्द्र! लोके॥ 17॥
नित्योदयं दलित – मोह – महान्धकारं,
गम्यं न राहु – वदनस्य न वारिदानाम्।
विभ्राजते तव मुखाब्ज – मनल्पकान्ति,
विद्योतयज्-जगदपूर्व-शशाङ्क-बिम्बम्॥ 18॥
किं शर्वरीषु शशिनाह्नि विवस्वता वा,
युष्मन्मुखेन्दु- दलितेषु तम: सु नाथ!
निष्पन्न-शालि-वन-शालिनी जीव-लोके,
कार्यं कियज्जल-धरै-र्जल-भार-नमै्र:॥ 19॥
ज्ञानं यथा त्वयि विभाति कृतावकाशं,
नैवं तथा हरि -हरादिषु नायकेषु।
तेजो महा मणिषु याति यथा महत्त्वं,
नैवं तु काच -शकले किरणाकुलेऽपि॥ 20॥
मन्ये वरं हरि- हरादय एव दृष्टा,
दृष्टेषु येषु हृदयं त्वयि तोषमेति।
किं वीक्षितेन भवता भुवि येन नान्य:,
कश्चिन्मनो हरति नाथ! भवान्तरेऽपि॥ 21॥
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्,
नान्या सुतं त्वदुपमं जननी प्रसूता।
सर्वा दिशो दधति भानि सहस्र-रश्मिं,
प्राच्येव दिग्जनयति स्फुरदंशु-जालम् ॥ 22॥
त्वामामनन्ति मुनय: परमं पुमांस-
मादित्य-वर्ण-ममलं तमस: पुरस्तात्।
त्वामेव सम्य – गुपलभ्य जयन्ति मृत्युं,
नान्य: शिव: शिवपदस्य मुनीन्द्र! पन्था:॥ 23॥
त्वा-मव्ययं विभु-मचिन्त्य-मसंख्य-माद्यं,
ब्रह्माणमीश्वर – मनन्त – मनङ्ग – केतुम्।
योगीश्वरं विदित – योग-मनेक-मेकं,
ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्त: ॥ 24॥
बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्,
त्वं शङ्करोऽसि भुवन-त्रय- शङ्करत्वात् ।
धातासि धीर! शिव-मार्ग विधेर्विधानाद्,
व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि॥ 25॥
तुभ्यं नमस् – त्रिभुवनार्ति – हराय नाथ!
तुभ्यं नम: क्षिति-तलामल -भूषणाय।
तुभ्यं नमस् – त्रिजगत: परमेश्वराय,
तुभ्यं नमो जिन! भवोदधि-शोषणाय॥ 26॥
को विस्मयोऽत्र यदि नाम गुणै-रशेषै
Bhaktamar Stotra -2
भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-
मुद्योतकं दलित-पाप-तमो-वितानम् ।
सम्यक्प्रणम्य जिन-पाद-युगं युगादा-
वालम्बनं भव-जले पततां जनानाम् ॥1॥
यःसंस्तुतः सकल-वांग्मय-तत्त्वबोधा-
दुद्भूत-बुद्धि-पटुभिः सुरलोक-नाथै ।
स्तोत्रैर्जगत्त्रितय-चित्त-हरै-रुदारैः,
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥2॥
बुद्धया विनापि विबुधार्चित-पाद-पीठ,
स्तोतुं समुद्यत-मतिर्विगत-त्रपोहम् ।
बालं विहाय जल-संस्थित-मिन्दु-बिम्ब-
मन्यःक इच्छति जनः सहसा ग्रहीतुम् ॥3॥
वक्तुं गुणान् गुण-समुद्र! शशांक-कांतान्,
कस्ते क्षमः सुर-गुरु-प्रतिमोपि बुद्धया ।
कल्पांत-काल-पवनोद्धत-नक्र-चक्रं,
को वा तरीतु-मलमम्बु निधिं भुजाभ्याम् ॥4॥
सोहं तथापि तव भक्ति-वशान्मुनीश,
कर्तुं स्तवं विगत-शक्ति-रपि प्रवृतः ।
प्रीत्यात्म-वीर्य-मविचार्य्य मृगी मृगेन्द्रं,
नाभ्येति किं निज-शिशोः परि-पालनार्थम् ॥5॥
अल्पश्रुतं श्रुतवतां परिहास-धाम,
त्वद्भक्ति-रेव-मुखरी-कुरुते बलान्माम् ।
यत्कोकिलः किल मधौ मधुरं विरौति,
तच्चाम्र-चारु-कालिका-निकरैक-हेतु ॥6॥
त्वत्संस्तवेन भव-संतति-सन्निबद्धं
पापं क्षणात्क्षय-मुपैति शरीर-भाजाम् ।
आक्रांत-लोक-मलिनील-मशेष-माशु,
सूर्यांशु-भिन्न-मिव शार्वर-मन्धकारम्॥7॥
Bhaktamar Stotra Sanskrit With Meaning in Hindi
मत्वेति नाथ तव संस्तवनं मयेद-
मारभ्यते तनुधियापि तव प्रभावात् ।
चेतो हरिष्यति सतां नलिनी-दलेषु,
मुक्ताफल-द्युति-मुपैति ननूद-बिन्दुः ॥8॥
आस्तां तव स्तवन-मस्त-समस्त-दोषं,
त्वत्संकथापि जगतां दुरितानि हंति ।
दूरे सहस्त्र-किरणः कुरुते प्रभैव,
पद्माकरेषु जलजानि विकास-भांजि ॥9॥
नात्यद्भुतं भुवन-भूषण-भूतनाथ,
भूतैर्गुणैर्भुवि भवंत-मभिष्टु-वंतः ।
तुल्या भवंति भवतो ननु तेन किं वा,
भूत्याश्रितं य इह नात्मसमं करोति ॥10॥
दृष्ट्वा भवंत-मनिमेष-विलोकनीयं,
नान्यत्र तोष-मुपयाति जनस्य चक्षुः ।
पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धो,
क्षारं जलं जलनिधे रसितुँ क इच्छेत् ॥11॥
यैः शांत-राग-रुचिभिः परमाणु-भिस्त्वं,
निर्मापितस्त्रि-भुवनैक-ललाम-भूत ।
तावंत एव खलु तेप्यणवः पृथिव्यां,
यत्ते समान-मपरं न हि रूपमस्ति ॥12॥
वक्त्रं क्व ते सुर-नरोरगनेत्र-हारि,
निःशेष-निर्जित-जगत्त्रित-योपमानम् ।
बिम्बं कलंक-मलिनं क्व निशाकरस्य,
यद्वासरे भवति पाण्डु-पलाश-कल्पम् ॥13॥
सम्पूर्ण-मण्डल-शशांक-कला कलाप-
शुभ्रा गुणास्त्रिभुवनं तव लंग्घयंति ।
ये संश्रितास्त्रिजगदीश्वर-नाथमेकं,
कस्तान्निवारयति संचरतो यथेष्टम ॥14॥
चित्रं किमत्र यदि ते त्रिदशांगनाभि-
नीतं मनागपि मनो न विकार-मार्गम् ।
कल्पांत-काल-मरुता चलिता चलेन
किं मन्दराद्रि-शिखरं चलितं कदाचित् ॥15॥
निर्धूम-वर्त्ति-रपवर्जित-तैलपूरः,
कृत्स्नं जगत्त्रयमिदं प्रकटी-करोषि ।
गम्यो न जातु मरुतां चलिता-चलानां,
दीपोपरस्त्वमसि नाथ! जगत्प्रकाशः ॥16॥
नास्तं कदाचिदुपयासि न राहु-गम्यः,
स्पष्टी-करोषि सहसा युगपज्जगंति ।
नाम्भोधरोदर-निरुद्ध-महा-प्रभावः,
सूर्यातिशायि-महिमासि मुनीन्द्र लोके ॥17॥
नित्योदयं दलित-मोह-महान्धकारं।
गम्यं न राहु-वदनस्य न वारिदानाम् ।
विभ्राजते तव मुखाब्ज-मनल्प-कांति,
विद्योतयज्-जगदपूर्व-शशांक-विम्बम् ॥18॥
किं शर्वरीषु शशिनान्हि विवस्वता वा,
युष्मन्मुखेन्दु-दलितेषु तमःसु नाथ ।
निष्पन्न-शालि-वन-शालिनी जीव-लोके,
कार्यं कियज्-जलधरैर्जल-भारनम्रैः ॥19॥
ज्ञानं यथा त्वयि विभाति कृतावकाशं
नैवं तथा हरि-हरादिषु नायकेषु ।
तेजःस्फुरन्मणिषु याति यथा महत्वं,
नैवं तु काच-शकले किरणा-कुलेपि ॥20॥
दृष्टेषु येषु हृदयं त्वयि तोषमेति ।
किं वीक्षितेन भवता भुवि येन नान्यः,
कश्चिन्मनो हरति नाथ भवांतरेपि ॥21॥
स्त्रीणां शतानि शतशो जनयंति पुत्रान्-
नान्या सुतं त्वदुपमं जननी प्रसूता ।
सर्वा दिशो दधति भानि सहस्त्र-रश्मिं,
प्राच्येव दिग्जनयति स्फुर-दंशु-जालम् ॥22॥
त्वामा-मनंति मुनयः परमं पुमांस-
मादित्य-वर्ण-ममलं तमसः पुरस्तात्
त्वामेव सम्य-गुपलभ्य जयंति मृत्युं,
नान्यः शिवः शिव-पदस्य मुनीन्द्र पंथाः ॥23॥
त्वा-मव्ययं विभु-मचिंत्य-मसंखय-माद्यं,
ब्रह्माण-मीश्वर-मनंत-मनंग केतुम् ।
योगीश्वरं विदित-योग-मनेक-मेकं,
ज्ञान-स्वरूप-ममलं प्रवदंति संतः ॥24॥
बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्,
त्त्वं शंकरोसि भुवन-त्रय-शंकरत्वात् ।
धातासि धीर! शिव-मार्ग-विधेर्-विधानात्,
व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोसि ॥25॥
तुभ्यं नम स्त्रिभुवनार्ति-हाराय नाथ,
तुभ्यं नमः क्षिति-तलामल-भूषणाय ।
तुभ्यं नमस्त्रिजगतः परमेश्वराय,
तुभ्यं नमो जिन! भवोदधि-शोषणाय ॥26॥
को विस्मयोत्र यदि नाम गुणैरशेषै,
स्त्वं संश्रितो निरवकाश-तया मुनीश ।
दोषै-रुपात्त-विविधाश्रय-जात-गर्वैः,
स्वप्नांतरेपि न कदाचिद-पीक्षितोसि ॥27।।
उच्चैर-शोक-तरु-संश्रित-मुन्मयूख-
माभाति रूप-ममलं भवतो नितांतम् ।
स्पष्टोल्लसत-किरणमस्त-तमोवितानं,
बिम्बं रवेरिव पयोधर-पार्श्ववर्ति ॥28॥
सिंहासने मणि-मयूख-शिखा-विचित्रे,
विभाजते तव वपुः कानका-वदातम ।
बिम्बं वियद्-विलस-दंशु-लता-वितानं,
तुंगोदयाद्रि-शिरसीव सहस्त्र-रश्मेः ॥29॥
कुन्दावदात-चल-चामर-चारु-शोभं,
विभ्राजते तव वपुः कलधौत-कांतम् ।
उद्यच्छशांक-शुचि-निर्झर-वारि-धार-
मुच्चैस्तटं सुर-गिरेरिव शात-कौम्भम् ॥30॥
छत्र-त्रयं तव विभाति शशांक-कांत-
मुच्चैः स्थितं स्थगित-भानु-कर-प्रतापम् ।
मुक्ता-फल-प्रकर-जाल-विवृद्ध-शोभं,
प्रख्यापयत्-त्रिजगतः परमेश्वरत्वम् ॥31॥
गम्भीर-तार-रव-पूरित-दिग्वभाग-
स्त्रैलोक्य-लोक-शुभ-संगम-भूति-दक्षः ।
सद्धर्म-राज-जय-घोषण-घोषकः सन्,
खे दुन्दुभिर्-ध्वनति ते यशसः प्रवादि ॥32॥
मन्दार-सुन्दर-नमेरु-सुपारिजात
संतानकादि-कुसुमोत्कर-वृष्टिरुद्धा ।
गन्धोद-बिन्दु-शुभ-मन्द-मरुत्प्रपाता,
दिव्या दिवः पतति ते वयसां ततिर्वा ॥33॥
शुम्भत्प्रभा-वलय-भूरि-विभा विभोस्ते,
लोकत्रये द्युतिमतां द्युतिमा-क्षिपंती ।
प्रोद्यद्दिवाकर्-निरंतर-भूरि-संख्या,
दीप्त्या जयत्यपि निशामपि सोम-सौम्याम् ॥34॥
स्वर्गा-पवर्ग-गममार्ग-विमार्गणेष्टः,
सद्धर्म-तत्त्व-कथनैक-पटुस-त्रिलोक्याः ।
दिव्य-ध्वनिर-भवति ते विशदार्थ-सर्व-
भाषा-स्वभाव-परिणाम-गुणैः प्रयोज्यः ॥35॥
Bhaktamar Stotra Sanskrit PDF
उन्निद्र-हेम-नवपंकजपुंज-कांती,
पर्युल्लसन्नख-मयूख-शिखा-भिरामौ ।
पादौ पदानि तव यत्र जिनेन्द्र धत्तः,
पद्मानि तत्र विबुधाः परि-कल्पयंति ॥36॥
इत्थं यथा तव विभूति-रभूज्जिनेन्द्र,
धर्मोप-देशन विधौ न तथा परस्य ।
यादृक् प्रभा देनकृतः प्रहतान्ध-कारा,
तादृक्कुतो ग्रह-गणस्य विकासिनोपि ॥37॥
श्च्योतन-मदा-विल-विलोल-कपोल-मूल-
मत्त-भ्रमद-भ्रमर-नाद विवृद्ध-कोपम् ।
ऐरावताभ-मिभ-मुद्धत-मापतंतं,
दृष्टवा भयं भवति नो भवदा-श्रितानाम् ॥38॥
भिन्नेभ-कुम्भ-गल-दुज्ज्वल-शोणिताक्त-
मुक्ताफल-प्रकर-भूषित-भूमिभागः ।
बद्ध-क्रमः क्रम-गतं हरिणा-धिपोपि,
नाक्रामति क्रम-युगाचल-संश्रितं ते ॥39॥
कल्पांत-काल-पवनोद्धत-वह्नि-कल्पं,
दावानलं ज्वलित-मुज्ज्वल-मुत्स्फुलिंगम् ।
विश्वं जिघत्सुमिव सम्मुख-मापतंतं,
त्वन्नाम-कीर्तन-जलं शमयत्य-शेषम् ॥40॥
रक्तेक्षणं समद-कोकिल-कण्ठ-नीलं,
क्रोधोद्धतं फणिन-मुत्फण-मापतंतम् ।
आक्रामति क्रमयुगेन निरस्त-शंकस्-
त्वन्नाम-नाग-दमनी हृदि यस्य पुंस ॥41॥
वल्गत्तुरंग-गज-गर्जित-भीम-नाद-
माजौ बलं बलवतामपि भू-पतीनाम् ।
उद्यद्-दिवाकर-मयूख-शिखा-पविद्धं,
त्वत्कीर्त्तनात्-तम इवाशु भिदा-मुपैति ॥42॥
कुंताग्र-भिन्न-गज-शोणित-वारिवाह-
वेगावतार-तरणातुर-योध-भीमे ।
युद्धे जयं विजित-दुर्जय-जेय-पक्षास्-
त्वत्-पाद-पंकज-वना-श्रयिणो लभंते ॥43॥
अम्भो-निधौ क्षुभित-भीषण-नक्र-चक्र-
पाठीन-पीठ-भय-दोल्वण-वाडवाग्नौ ।
रंगत्तरंग-शिखर-स्थित-यान-पात्रास्-
त्रासं विहाय भवतः स्मरणाद्-व्रजंति ॥44॥
उद्भूत-भीषण-जलोदर-भार-भुग्नाः,
शोच्यां दशा-मुपगताश्-च्युत-जीविताशाः ।
त्वत्पाद-पंकज-रजोमृतदिग्ध-देहाः,
मर्त्या भवंति मकर-ध्वज-तुल्य-रूपाः ॥45॥
आपाद-कण्ठ-मुरुशृंखल-वेष्टितांगा,
गाढं बृहन्निगड-कोटि-निघृष्ट-जंघाः ।
त्वन्नाम-मंत्र-मनिशं मनुजाः स्मरंतः
सद्यः स्वयं विगत-बन्ध-भया भवंति ॥46॥
मत्त-द्विपेन्द्र-मृगराज-दवानलाहि-
संग्राम-वारिधि-महोदर-बन्धनोत्थम् ।
तस्याशु नाश-मुपयाति भयं भियेव,
यस्तावकं स्तव-मिमं मतिमान-धीते ॥47॥
स्तोत्र-स्त्रजं तव जिनेन्द्र गुणैर्-निबद्धां
भक्त्या मया विविध-वर्ण-विचित्र-पुष्पाम् ।
धत्ते जनो य इह कण्ठ-गतामजसं
तं मानतुंगमवश समुपैति लक्ष्मीः ॥48॥
Bhaktamar Stotra 3 in Hinglish
Namo Arihantanam
Namo Siddhanam
Namo Ayariyanam
Namo Uvajjhayanam
Namo Loye Savva Sahunam
Eso Panch Namoyaro
Savva Pavappanasano
Mangalanam Cha Savvesim
Padhamam Havai Mangalam
Bhaktamara-pranata-maulimani-prabhana -mudyotakam dalita-papa-tamovitanam |
Samyak pranamya jina padayugam yugada-valambanam bhavajale patatam jananam || 1||
Yah sanstutah sakala-vangaya- tatva-bodha-d -ud bhuta- buddhipatubhih suralokanathaih|
Stotrairjagattritaya chitta-harairudaraihstoshye kilahamapi tam prathamam jinendram || 2||
Buddhya vinaapi vibudharchita padapithastotum samudyata matirvigatatrapoaham |
Balam vihaya jalasansthitamindu bimba -manyah ka ichchhati janah sahasa grahitum || 3 ||
Vaktum gunan gunasamudra shashankkantankaste kshamah suragurupratimoapi buddhya |
Kalpanta – kal – pavanoddhata – nakrachakramko va taritumalamambunidhim bhujabhyam || 4 |
Soaham tathapi tava bhakti vashanmunishakartum stavam vigatashaktirapi pravrittah |
Prityaaatmaviryamavicharya mrigo mrigendramnabhyeti kim nijashishoh paripalanartham || 5 ||
Alpashrutam shrutavatam parihasadhamtvad bhaktireva mukharikurute balanmam |
Yatkokilah kila madhau madhuram virautitachcharuchuta – kalikanikaraikahetu || 6||
Tvatsanstavena bhavasantati – sannibaddhampapam kshanat kshayamupaiti sharira bhajam |
Akranta – lokamalinilamasheshamashusuryanshubhinnamiva sharvaramandhakaram || 7||
Matveti nath! Tav sanstavanam mayeda -marabhyate tanudhiyapi tava prabhavat |
Cheto harishyati satam nalinidaleshumuktaphala – dyutimupaiti nanudabinduh || 8 ||
Astam tava stavanamastasamasta – doshamtvatsankathaapi jagatam duritani hanti |
Dure sahastrakiranah kurute prabhaivapadmakareshu jalajani vikashabhanji || 9||
Natyad -bhutam bhuvana-bhushana bhutanathabhutaira gunair -bhuvi bhavantamabhishtuvantah
Tulya bhavanti bhavato nanu tena kim vabhutyashritam ya iha natmasamam karoti || 10 ||
Drishtava bhavantamanimesha-vilokaniyamnanyatra toshamupayati janasya chakshuh |
Pitva payah shashikaradyuti dugdha sindhohksharam jalam jalanidherasitum ka ichchhet || 11 ||
Yaih shantaragaruchibhih paramanubhistavamnirmapitastribhuvanaika lalama-bhuta|
Tavanta eva khalu teapyanavah prithivyamyatte samanamaparam na hi rupamasti || 12 ||
Vaktram kva te suranaroraganetraharinihshesha – nirjita-jagat tritayopamanam |
Bimbam kalanka-malinam kva nishakarasyayad vasare bhavati pandupalashakalpam || 13 ||
Sampurnamannala – shashankakalakalapshubhra gunastribhuvanam tava langhayanti |
Ye sanshritas -trijagadishvara nathamekamkastan -nivarayati sancharato yatheshtam || 14 ||
Chitram kimatra yadi te tridashanganabhir -nitam managapi mano na vikara – margam |
Kalpantakalamaruta chalitachalenakim mandaradrishikhiram chalitam kadachit || 15 ||
Nirdhumavartipavarjita – tailapurahkritsnam jagattrayamidam prakati-karoshi |
Gamyo na jatu marutam chalitachalanamdipoaparastvamasi nath jagatprakashah || 16 ||
Nastam kadachidupayasi na rahugamyahspashtikaroshi sahasa yugapajjaganti |
Nambhodharodara – niruddhamahaprabhavahsuryatishayimahimasi munindra! Loke || 17 ||
Nityodayam dalitamohamahandhakaramgamyam na rahuvadanasya na varidanam |
Vibhrjate tava mukhabjamanalpa kantividyotayajjagadapurva – shashankabimbam || 18 ||
Kim sharvarishu shashinaahni vivasvata vayushmanmukhendu – daliteshu tamassu natha
Nishmanna shalivanashalini jiva lokekaryam kiyajjaladharair – jalabhara namraih || 19 ||
Gyanam yatha tvayi vibhati kritavakashamnaivam tatha hariharadishu nayakeshu
Tejah sphuranmanishu yati yatha mahatvamnaivam tu kacha – shakale kiranakuleapi || 20 ||
Manye varam hari-haradaya eva drishtadrishteshu yeshu hridayam tvayi toshameti |
Kim vikshitena bhavata bhuvi yena nanyahkashchinmano harati natha! Bhavantareapi || 21 ||
Strinam shatani shatasho janayanti putrannanya sutam tvadupamam janani prasuta|
Sarva disho dadhati bhani sahastrarashmimprachyeva dig janayati sphuradanshujalam || 22 ||
Tvamamananti munayah paramam pumansa-madityavarnamamalam tamasah parastat |
Tvameva samyagupalabhya jayanti mrityumnanyah shivah shivapadasya munindra! Panthah || 23 ||
Tvamavyayam vibhumachintyamasankhyamadyambrahmanamishvaramanantamanangaketum
Yogishvaram viditayogamanekamekamgyanasvarupa pravadanti santah || 24 ||
Buddhastvameva vibudharchita buddhi bodhat, tvam shankaroasi bhuvanatraya shankaratvat |
Dhataasi dhira! Shivamarga-vidhervidhanat, vyaktam tvameva bhagavan! Purushottamoasi || 25 ||
Tubhyam namastribhuvanartiharaya natha |tubhyam namah kshititalamalabhushanaya |
Tubhyam namastrijagatah parameshvaraya, tubhyam namo jina! Bhavodadhi shoshanaya || 26 ||
Ko vismayoatra yadi nama gunairasheshais -tvam sanshrito niravakashataya munisha!
Doshairupatta vividhashraya jatagarvaih, svapnantareapi na kadachidapikshitoasi || 27 ||
Uchchairashoka-tarusanshritamunmayukha-mabhati rupamamalam bhavato nitantam |
Spashtollasatkiranamasta-tamovitanambimbam raveriva payodhara parshvavarti || 28 ||
Simhasane manimayukhashikhavichitre, vibhrajate tava vapuh kanakavadatam |
Bimbam viyadvilasadanshulata – vitanam, tungodayadri – shirasiva sahastrarashmeh || 29 ||
Kundavadata – chalachamara – charushobham, vibhrajate tava vapuh kaladhautakantam |
Udyachchhashanka – shuchinirjhara – varidhara-, muchchaistatam sura gireriva shatakaumbham || 30 ||
Chhatratrayam tava vibhati shashankakanta-muchchaih sthitam sthagita bhanukara – pratapam |
Muktaphala – prakarajala – vivriddhashobham, prakhyapayattrijagatah parameshvaratvam || 31 ||
Gambhirataravapurita – digvibhagas -trailokyaloka – shubhasangama bhutidakshah |
Saddharmarajajayaghoshana – ghoshakah san, khe dundubhirdhvanati te yashasah pravadi || 32 ||
Mandara – sundaranameru – suparijatasantanakadikusumotkara-vrishtiruddha |
Gandhodabindu – shubhamanda – marutprapata, divya divah patita te vachasam tatirva || 33 ||
Shumbhatprabhavalaya – bhurivibha vibhoste, lokatraye dyutimatam dyutimakshipanti |
Prodyad -divakara – nirantara bhurisankhyadiptya jayatyapi nishamapi soma-saumyam || 34 ||
Svargapavargagamamarga – vimarganeshtah, saddharmatatvakathanaika – patustrilokyah |
Divyadhvanirbhavati te vishadarthasatvabhashasvabhava – parinamagunaih prayojyah || 35 ||
Unnidrahema – navapankaja – punjakanti, paryullasannakhamayukha-shikhabhiramau |
Padau padani tava yatra jinendra! Dhattahpadmani tatra vibudhah parikalpayanti || 36 ||
Ittham yatha tava vibhutirabhujjinendra, dharmopadeshanavidhau na tatha parasya |
Yadrik prabha dinakritah prahatandhakara, tadrik -kuto grahaganasya vikashinoapi | 37 ||
Shchyotanmadavilavilola-kapolamulamattabhramad -bhramaranada – vivriddhakopam |
Airavatabhamibhamuddhatamapatantandrisht va bhayam bhavati no bhavadashritanam || 38 ||
Bhinnebha – kumbha – galadujjavala – shonitakta, muktaphala prakara – bhushita bhumibhagah |
Baddhakramah kramagatam harinadhipoapi, nakramati kramayugachalasanshritam te || 39 ||
Kalpantakala – pavanoddhata – vahnikalpam, davanalam jvalitamujjavalamutsphulingam |
Vishvam jighatsumiva sammukhamapatantam, tvannamakirtanajalam shamayatyashesham || 40 ||
Raktekshanam samadakokila – kanthanilam, krodhoddhatam phaninamutphanamapatantam |
Akramati kramayugena nirastashankas -tvannama nagadamani hridi yasya punsah || 41 ||
Valgatturanga gajagarjita – bhimanada-majau balam balavatamapi bhupatinam!
Udyaddivakara mayukha – shikhapaviddham, tvat -kirtanat tama ivashu bhidamupaiti || 42 ||
Kuntagrabhinnagaja – shonitavarivahavegavatara – taranaturayodha – bhime |
Yuddhe jayam vijitadurjayajeyapakshas -tvatpada pankajavanashrayino labhante || 43 ||
Ambhaunidhau kshubhitabhishananakrachakra-pathina pithabhayadolbanavadavagnau
Rangattaranga – shikharasthita – yanapatras -trasam vihaya bhavatahsmaranad vrajanti || 44 ||
Ud bhutabhishanajalodara – bharabhugnahshochyam dashamupagatashchyutajivitashah |
Tvatpadapankaja-rajoamritadigdhadeha, martya bhavanti makaradhvajatulyarupah || 45 ||
Apada – kanthamurushrrinkhala – veshtitanga, gadham brihannigadakotinighrishtajanghah |
Tvannamamantramanisham manujah smarantah, sadyah svayam vigata-bandhabhaya bhavanti ||46||
Mattadvipendra – mrigaraja – davanalahisangrama – varidhi – mahodara-bandhanottham |
Tasyashu nashamupayati bhayam bhiyeva, yastavakam stavamimam matimanadhite || 47 ||
Stotrastrajam tava jinendra! Gunairnibaddham, bhaktya maya vividhavarnavichitrapushpam |
Dhatte jano ya iha kanthagatamajasram, tam manatungamavasha samupaiti lakshmih || 48 ||